Pūrvapīṭhikā
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः
अविकाराय शुद्धाय नित्याय परमात्मने
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
Uttarapīṭhikā
इति श्रीमहाभारते शतसहस्रिकायां संहितायां
वैयासिक्यां अनुशासनपर्वान्तर्गत अनुशासनिकपर्वणि मोक्षधर्मे
भीष्म युधिष्ठिर संवादे
श्री विष्णोर्दिव्यसहस्रनामस्तोत्रम् नाम
एकोनपञ्चाशदधिकशततमोऽध्यायः
इति श्रीविष्णुसहस्रनाम स्तोत्रम्