Stōtram
इन्द्र उवाच
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते
नमस्ते गरुडारूढे कोलासुरभयङ्करि
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते
Stōtram
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा
११
इति श्री महालक्ष्म्यष्टकम्