Stotram
वेंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः |
संकर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च
जनार्दनः पद्मनाभो वेंकटाचलवासिनः |
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः
गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः |
वराहो वामनश्चैव नारायण अधोक्षजः
श्रीधरः पुंडरीकाक्षः सर्वदेवस्तुतो हरिः |
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः |
चोळपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः
Stotram
इति श्री ब्रह्मांडपुराणे ब्रह्मनारदसंवादे
वेंकटगिरिमाहात्म्ये श्री वेंकटेश अष्टकम्